चंदन है इस देश की माटी
हे गाणे संस्कृत मध्ये
मृदपि च चन्दनम्
मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्रामः सिद्धवनम् ।
यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥
हरिमन्दिरमिदमखिलशरीरम्
धनशक्ति-जनसेवायै
यत्र च क्रीडायै वनराजः
धेनुर्माता परमशिवा॥
नित्यं प्रातः शिवगुणगानं
दीपनुतिः खलु शत्रुपरा ॥ ॥मृदपि॥
भाग्यविधायि निजार्जित कर्म
यत्र श्रमः श्रियमर्जन्यति।
व्याग धनानां तपोनिधीनां
गाथां गायति कविवाणि
गङ्गाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी ॥ ॥मृदपि॥
यत्र हि नैव स्वदेहविमोहः
युद्धरतानां वीराणाम् ।
यत्र हि कृषकः कार्यरतः सन्
पश्यति जीवनसाफल्यम्
जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिव पद सेवा ॥ ॥मृदपि॥
No comments:
Post a Comment