Sunday, June 13, 2021

Mahaganapati Stotram

 महागणपतिस्तोत्रम्

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । 

भक्तावासं स्मरेन्नित्यम्, आयुःकामार्थसिद्धये ।। १ ।।


प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ।।२।।


लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।

सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ||३|| 


नवमं भालचन्द्रं च दशमं तु विनायकम् ।

एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥ 


द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

न च विघ्नभयं तस्य सर्वसिद्धिकर प्रभो ।।५।। 


विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥६॥


जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशय: ।। ७ ।। 


अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।

तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॥८॥ 


इति श्रीनारदपुराणे सङ्कटनाशनं महागणपतिस्तोत्रं सम्पूर्णम् ।

No comments:

Post a Comment